Mob : +91 92554 42103
Email id: iahrw2019@gmail.com
Mob : +91 92554 42103

Pages:321-323
मोनिका (संस्कृत शिक्षिका, कन्या गुरुकुल, पंचगांव, भिवानी, हरियाणा)
सत्याहिंसागुणैः श्रेष्ठा विश्वबन्ध्ुत्वशिक्षिका। विश्वशान्तिसुखदात्राी भारतीया हि संस्कृतिः।। संस्कृतिस्तु मनसः आत्मनश्च संस्करणं परिष्करणं च। सम्पूर्वकं करणाद्यर्थकात् कृ धतोः क्तिन् प्रत्ययेन संस्कृतिः शब्दो निष्पद्यते। संस्काराणां अनवरता प्रक्रिया संस्कृतिः अस्ति। सा नाम संस्कृतिः या अज्ञानं व्यपनयति, दोषाञच दूरीकरोति। इत्थं कस्यापि राष्ट्रस्य अविच्छिन्ना विकास परम्परा आचार-विचार-सरणिश्चैव तस्य संस्कृतिः कथ्यते। संस्कृतिरेव मानवहृदयेषु विश्वबन्ध्ुत्व सद्भावनामुत्पाद्य अखिललोककल्याणाय कल्पते। विश्वऽस्मिन् सम्प्रति याः काश्चिदपि संस्कृतयः उपलभ्यन्ते, तासु सर्वासु भारतीयसंस्कृतिः किमप्यपूर्वं वैशिष्ट्यम् आवहति। जगति यदा राष्ट्रान्तरनिवासिनः पशवः इव सर्वज्ञानविहीनाः अवर्तन्त, तदा एव भारतीयाः सर्वासु कलासु सकलासु च विद्यासु परमप्रवीणाः अशोभन्त। अतएव भारतीय संस्कृतिः विश्वस्य प्राचीनतमा संस्कृतिरस्ति, नास्त्यत्रा कश्चिद् विसंवादः। निम्नाघ्किता बिन्दवः भारतीयसंस्कृतेरघ्गभूताः तस्याः वैशिष्ट्यम् समुद्घाटयन्ति।
Pages:321-323
मोनिका (संस्कृत शिक्षिका, कन्या गुरुकुल, पंचगांव, भिवानी, हरियाणा)