Mob : +91 92554 42103
Email id: iahrw2019@gmail.com
Mob : +91 92554 42103

Pages:203-205
मोनिका (संस्कृत-शिक्षिका, कन्या गुरुकुल, पंचगाँव, भिवानी, हरियाणा)
स्ंस्कृतं संस्कृतेर्मूलं ज्ञान-विज्ञानवारिधिः। वेदतत्त्वार्थसंजुष्टं लोकालोककरं शिवम्।। (कपिलस्य) भारतीयसंस्कृतेः स्वरूपम् का नाम संस्कृतिः?संस्कृतिः संस्कारश्च इति शब्दौ एकार्थकौ। मनसः आत्मनो वा संस्कारं करोति या सा संस्कृतिः। सम् इत्युपसर्गपूर्वककृञ्धतोः ‘स्त्रिायां क्तिन्’ प्रत्यये सति संस्कृतिः इति शब्दः निष्पन्नो भवति परिष्करणं, संस्करणं, दुर्भावदहनञ्च संस्कृतिः इति। संस्कृते विचारस्वातन्त्रयं, सदाचारपालनं, धर्मप्राधन्यं, दुर्भावदमनं, पाप-अपाकरणं, दुःखदहनं, ज्ञानज्योतिप्रदानं, अविद्यातमोपहरणं, सुखसाधनं, सत्यं स्थापनं, असत्यप्रशमनं, शन्तिप्रदानं, विश्वबन्धुत्वस्थापनं मनोऽमलीकरणं इत्यादयः दुर्लभा गुणा विराजन्ते। संस्कृतिः हि जीवनोन्नतिसाधिनी, सद्गुणग्राहिणी, सत्यपथविहारिणी ज्ञानज्योतिप्रचारिणी च। आर्याणां खलु क्षयमेव परमपावनो भारतदेशो यस्य भाषा संस्कृतिश्च परमप्राचीने जगतः प्रारम्भिके च विद्येते। भारतीयासंस्कृतिः विश्वस्य सर्वासु संस्कृतिषु प्राचीना श्रेष्ठा प्रेष्ठा च इति सर्वैः विद्व˜िः अनुमोद्यन्ते।
Pages:203-205
मोनिका (संस्कृत-शिक्षिका, कन्या गुरुकुल, पंचगाँव, भिवानी, हरियाणा)