- You cannot add another "महाभारत में जनपद व्यवस्था तथा प्रमुख जनपद" to your cart. View cart

वेदोऽखिलो धर्ममूलम्
Pages:37-39
मोनिका (संस्कृत-शिक्षिका, कन्या गुरुकुल, पंचगाँव, भिवानी, हरियाणा)
वेदानां स्वरूपम् – (विद् घञ्, अच् वा) अयं विद् ज्ञाने इति धतोः घञि प्रत्यये कृते वेद इति रूपं निष्पद्यते। ‘वेदनं वेदः’ ‘वेद्यते अनेन इति वेदः’ इति धतो भावे करणे वा घञि। धतुपाठे बहवः ‘विद्’ धतवः पठिताः सन्ति। यथा-सत्तायां विद्यते ज्ञाने वेत्ति वित्ते विचारणे। विन्दते विन्दति प्राप्तौ श्यन् लुक् श्नम् शेषु चव कमात्।। विद्-सत्तायाम्, विद्लृ-लाभे, विद् विचारणे, विद् चेतनाख्यान -निवासेषु वेदेषु एव एतेषां सर्वेषामपि धतूनां तेषामर्थानां च सार्थकता दृष्टिपथमायाति। अत एव स्वामिदयानन्दसरस्वतीमहो- दयेन ऋग्वेदादिभाष्यभूमिकायां या वेदशब्दस्य व्युत्पत्तिः प्रदर्शिता सा समीचीना विदन्ति, जानन्ति, विद्यन्ते, भवन्ति, विन्दन्ति अथवा विन्दन्ते लभन्ते, विचारयन्ति सर्वे मनुष्याः सर्वाः सत्यविद्याः यैः येषु वा तथा विद्वांसश्च भवन्ति ते वेदाः इति। वेद्यन्ते ज्ञायन्ते, लभ्यन्ते वा ध्र्मादिपुरुषार्थ एभिरिति वेदाः सायणा- चार्येण वेदशब्दस्य व्युत्पत्तिं कुर्वता लिखितम्-इष्टप्राप्त्य- निष्टपरिहा- रयोरलौकिकमुपायं यो ग्रन्थो वेदयति सा वेदः। अत एव महर्षिणा सायणेन कृष्णयजुर्वेदीयभाष्यभूमिकायां परिभाषा- रूपमिदं कथितम्-प्रत्यक्षेणानुमित्या वा यस्तूपत्यो न विद्यते। एवं विदन्ति वेदेन तस्माद् वेदस्य वेदता।। (कृ.यजु.भा.भू.) सर्वमतावलम्बिनः प्राच्याः पाश्चात्याः च विद्वांसः एकमत्या स्वीकुर्वन्ति यद् वेदाः अखिलविद्यानाम् आधरभूता विराजन्ते। अत एव एतेषां अपौरुषेयत्वं सुप्रसिद्धम्। वेदानां महत्त्वम्- विश्वसाहित्यस्य प्राचीनतमाः ग्रन्थाः वेदाः सन्ति। शास्त्रां मुख्यतः पुरुषार्थचतुष्टयं प्रतिपादयति। तेषु सर्वेषु पुरुषार्थेषु मनुष्यजीवनस्य मार्गप्रवर्तकरूपेण तथा नियंत्राकरूपेण धर्मस्य प्राधन्यं स्वीक्रियते। जीवनस्य सर्वेषु कालेषु धर्मस्य प्रभावः साक्षात् परम्परया वा विद्यते। धर्मेणोपार्जितोऽर्थः मनुष्यं सर्वविद्यानन्देन संयोज्य परिवर्तिजीवनमपि सुखमयं करोति धर्मशास्त्राम्। धर्मशास्त्राणि पुराणानि अपि शास्त्राकोटावन्तर्भूतानि भवन्ति। धर्मशास्त्राणि एव स्मृतय इति व्यवहिृयन्ते। वेदे विद्यमानाः धर्माः पुनः धर्मशास्त्रोषु स्मृताः। अतस्ताः स्मृतयः ख्याताः। मनुस्मृतिः समाजशास्- त्रास्य अद्वितीया कृतिरस्ति मन्वत्रिविष्णहारीतादि स्मृतयः विंशत्यः सन्ति। देवल-चन्द्रायण-कपिलादिभिश्च विरचिताः स्मृतयः प चाशत् सन्ति। आहत्य सप्ततिः स्मृतयस्सन्ति। मनुस्मृत्यादिग्रन्थेषु धर्मविषयक- चर्चा आध्यात्मिकचर्चाकारणात् धर्मशास्त्राण्यपि शास्त्रारूपेण गृहीतानि भवन्ति। अमरसिंहस्तु विश्वधर्मं धरयति, जनाः धर्मं धरयन्ति धर्मशब्दं व्युत्पादितवान्। मेदनी-हेमकोषयोस्तु ‘पुण्यार्थे धर्मशब्दः प्रयुक्तः’। विद्व˜िः सेवितः स˜िर्नित्यमद्वेषरागिभिः। हृदयेनाभ्यनुज्ञातो यो धर्मस्तं निबोधत।। (मनु. 2/1)
Description
Pages:37-39
मोनिका (संस्कृत-शिक्षिका, कन्या गुरुकुल, पंचगाँव, भिवानी, हरियाणा)