Mob : +91 92554 42103
Email id: iahrw2019@gmail.com
Mob : +91 92554 42103

Pages:210-212
मोनिका (संस्कृत-शिक्षिका, कन्या गुरुकुल, पंचगाँव, भिवानी, हरियाणा)
‘सर्वः स्वार्थं समीहते’ पूर्णतः सत्या चरितार्थैवोक्तिरियम्। नानाधिव्याधिसघ्कुले लोकेऽस्मिन् अनेके पुरुषा जन्म लभन्ते, जीवन्ति म्रियन्ते च। परन्तु सर्वे समानरूपेण नैव व्यवहरन्ति। स्वार्थाय तु सर्वे एव स्वं जीवनं यापयन्ति किन्तु भवन्ति केचन विरला एवेदृशा जनाः स्वार्थं परित्यज्य परहितायैव भवति येषां जीवनम्। धनस्यार्थं ते नैव जीवन्ति। न केवलं धनमपितु तेषां सर्वस्वमेव परहिताय भवति। उक्तं हि यथा- उदारस्य तृणं वित्तं शूरस्य मरणं तृणम्। विरक्तस्य तृणं भार्या निस्पृहस्य तृणं जगत्।। (महासुभाषितानि)उदारपुरुषा निखिलं विश्वं स्वपरिवारवत् स्वीकुर्वन्ति। ईदृशाः समुदारपुरुषा एव यशोभागिनो भवन्ति। उक्तमपि- उत्तमा मानमिच्छन्ति मानो हि महतां धनम्। (चाणक्यनीति) प्रायो जनाः स्वार्थपरायणा भूत्वा ‘इदं मम, इदं तव, इदं मम क्षेत्रं गृहम्’ वेति मत्वा विवदन्ति, कलहोऽपि जायते परस्परम्। ते परेषां सर्वस्वमेव लुण्ठनार्थं प्रयतन्ते। ईदृशाः स्वार्थपरायणा जना लज्जां, नयं, भयं, मानुषत्व´्चापि परित्यज्य महन्ति पापानि कुर्वन्ति। घोराणां युद्धानां कारणमपि स्वार्थसाध्नं स्वार्थपरा प्रवृत्तिरेव। इदन्तु सर्वविदितमेव यदीदृशाः स्वार्थसाधनतत्पराः जनाः अन्ततो गत्वा पापकर्मणां दुष्फलमवश्यमेव लभन्ते, दुःख´्चानुभवन्ति। हिरण्य- शिपुहिरण्याक्षरावणकुम्भकर्णशिशुपालदुर्याेधनादयः सन्त्यत्र निद- र्शनानि। तदा का कथा सामान्यजनानाम्?
Pages:210-212
मोनिका (संस्कृत-शिक्षिका, कन्या गुरुकुल, पंचगाँव, भिवानी, हरियाणा)